Ganesha Pancharatnam Lyrics In Hindi (श्रीगणेशपंचरत्नस्तोत्रम् )


Ganesha Pancharatnam (श्रीगणेशपंचरत्नस्तोत्रम् )


मुदा करात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंकसकं विलासिलोकरंजकम्

अनायकैकनायकं नमामि तं विनायम्

नताशुभाशुनाशकं नमामि तं विनायम्


नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम्



समस्तलोकशंकरं निरस्तदैत्यकुंजरं

दरेतरोदरं वरं वरेभवक्त्रमक्षरम्

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

मनस्करं नमस्कृतां नमस्करोमि भास्वरम्



अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्

प्रपंचनाशभीषणं धनंजयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम्



नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज –

मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि सन्ततम्


महागणेशपंचरत्नमादरेण योSन्वहं

प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्

अरोगतामदोषतां सुसाहितीं सुपुत्रतां

समाहितायुरष्टभूतिमभ्युपैति सोsचिरात्

।।इति श्रीमच्छंकराचार्यकृतं श्रीगणेशपंचरत्नस्तोत्रं सम्पूर्णम्।।